वांछित मन्त्र चुनें

इन्द्र॑स्य॒ नु सुकृ॑तं॒ दैव्यं॒ सहो॒ऽग्निर्गृ॒हे ज॑रि॒ता मेधि॑रः क॒विः । य॒ज्ञश्च॑ भूद्वि॒दथे॒ चारु॒रन्त॑म॒ आ स॒र्वता॑ति॒मदि॑तिं वृणीमहे ॥

अंग्रेज़ी लिप्यंतरण

indrasya nu sukṛtaṁ daivyaṁ saho gnir gṛhe jaritā medhiraḥ kaviḥ | yajñaś ca bhūd vidathe cārur antama ā sarvatātim aditiṁ vṛṇīmahe ||

पद पाठ

इन्द्र॑स्य । नु । सुऽकृ॑तम् । दैव्य॑म् । सहः॑ । अ॒ग्निः । गृ॒हे । ज॒रि॒ता । मेधि॑रः । क॒विः । य॒ज्ञः । च॒ । भू॒त् । वि॒दथे॑ । चारुः॑ । अन्त॑मः । आ । स॒र्वऽता॑तिम् । अदि॑तिम् । वृ॒णी॒म॒हे॒ ॥ १०.१००.६

ऋग्वेद » मण्डल:10» सूक्त:100» मन्त्र:6 | अष्टक:8» अध्याय:5» वर्ग:16» मन्त्र:6 | मण्डल:10» अनुवाक:9» मन्त्र:6


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (इन्द्रस्य) ऐश्वर्यवान् परमात्मा का (सुकृतम्) सुखसम्पादक (दैव्यम्) जीवन्मुक्त विद्वानों के लिए-हितकर (सहः-नु) बल अवश्य है (विदथे) अनुभवस्थान (गृहे) उपासकों के हृदय घर में (जरिता) दोषों को क्षीण करनेवाला (मेधिरः) मेधावी-मेधाप्रद (कविः) सर्वज्ञ (अग्निः) अग्रणायक है (यज्ञः) सङ्गमनीय (चारुः) सेवनीय (च) और (अन्तमः) अत्यन्त निकट (भूत्) है (सर्वतातिम्०) पूर्ववत् ॥६॥
भावार्थभाषाः - परमात्मा का ज्ञानबल जीवन्मुक्त विद्वानों के लिए अत्यन्त सुखसम्पादक है, वह उसके साक्षात् करने योग्य हृदय घर में दोषों को नष्ट करनेवाला मेधाप्रद विद्यमान है, उनके द्वारा सङ्गमनीय जीवन में धारण करने योग्य है, उस जगद्विस्तारक अविनाशी को अपनाना चाहिए ॥६॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (इन्द्रस्य सुकृतं दैव्यं सहः-नु) ऐश्वर्यवतः परमात्मनः सुसुखसम्पादकं देवेभ्यो विद्वद्भ्यो जीवन्मुक्तेभ्यो-हितकरमुक्थ्यं बलमस्ति (विदथे) अनुभवस्थाने (गृहे जरिता मेधिरः कविः-अग्निः) उपासकस्य हृदये दोषाणां जरयिता मेधावी मेधाप्रदः सर्वज्ञोऽग्रणायको वर्त्तते (यज्ञः-चारुः-अन्तमः-च भूत्) सङ्गमनीयः सेवनीयः-अन्तिमतमो नितान्तो निकटश्चास्ति (सर्वतातिम्०) पूर्ववत् ॥६॥